Friday, February 28, 2025

भारतीया वैज्ञानिकाः।

          लीलावती भास्कराचार्यं पृच्छति, यदि कमपि वस्तु वयम् उत्क्षिपामः, तर्हि तद् वस्तु पुनः अधः पतति। एतस्याः क्रियायाः कारणं पृथ्व्याः आकृष्टिशक्तिः अस्ति। पृथ्वी शेषनागे, कूर्मे, तथा च मेरुपर्वते अवलम्बिता नास्ति, एतदपि भवानेव अवदत्। तर्हि गुरुत्वम् इति कारणात् पृथ्व्याः तथा च अन्यानां खगोलपिण्डानाम् अधःपतनं किमर्थं न भवेत्? भास्कराचार्यः ताम् उत्तरं ददति, 

          आकृष्टिशक्तिश्च मही तया यत्, खस्तं गुरुः स्वाभिमुखं स्वशक्त्या ।

          आकृष्यते तत्पततीव भाति, समेसमन्तात् क्व पतत्वियं खे ।।

वयं वदामः, न्यूटनमहोदयेन गुरुत्वाकर्षणसिद्धान्तः कथितः। परन्तु तस्य शून्यपञ्चपञ्चशतकात् पूर्वं सम्पूर्णब्रह्माण्डस्य गुरुत्वाकर्षणविषये भास्कराचार्यमहोदयः उक्तवान्।ये मनुष्याः प्राचीनकाले फलानि खादित्वा, एतद् फलं मधुरम् उत्तमं च अस्ति, परन्तु तद् फलं विषयुक्तं अस्ति, एतद् ज्ञातवन्तः, ते अपि वैज्ञानिकाः आसन्, एतद् वक्तुं शक्नुमः। कोऽपि विषयुक्तं फलं खादित्वा मृत्युम् अपि प्राप्तवान्, कोऽपि अश्मान् घर्षयित्वा अग्निम् अपि निर्मितवान्। एताः सर्वे वैज्ञानिकाः एव आसन्। तत् कारणात्, ये ये कानपि वैज्ञानिकप्रयोगां कृत्वा तस्मात् किमपि  नूतनं ज्ञानं प्राप्नुवन्तः, ते ते वैज्ञानिकाः एव सन्ति, एतद् अहम् मन्ये।

विज्ञानं नाम विशेष-ज्ञानम्। अतः यैः यैः किञ्चिदपि विशेषं ज्ञानं प्राप्तं, ते ते सर्वे वैज्ञानिकाः एव सन्ति, इति अहं मन्ये। तस्मात्, येन पाणिनिमहोदयेन, संस्कृतम् इति समृद्धायाः भाषायाः सूक्ष्मनिरीक्षणेन, प्रत्येक-शब्दस्य कृते चिन्तनं कृत्वा विस्तृतं व्याकरणं लिखितं, सः पाणिनिमहोदयः अपि वैज्ञानिकः अस्ति, इति अहं मन्ये। अद्य सङ्गणकशास्त्रस्य यत्समानम् कठिनतमं व्याकरणमावश्यकं, तत्समानम् व्याकरणं सः कैककालात् पूर्वम् एव रचितवान्। न केवलं पूर्वकाले, अपि तु अद्यसमये अपि विज्ञाने एव संपूर्णाः मग्नाः वैज्ञानिकाः सन्ति। यदि वयं पश्यामः, पोखरण इत्यत्र भारतस्य परमाणुस्फोटप्रदर्शनं जातम्। तत्र काकोडकर अनिलमहोदयस्य बहु महत्वपूर्णम् उत्तरदायित्वम् आसीत्। परन्तु यत्र एव सः तस्य तातस्य मृत्युवार्तां प्राप्तवान्। सः सत्वरं गृहं गत्वा, तातस्य अन्तिमदर्शनं गृहीत्वा, पुनः सत्वरं पोखरण इत्यत्र आगतवान्। कौटुम्बिक उत्तरदायित्वाद् अपि देशकार्यं परम् अस्ति, इति तस्य निष्ठा। देशस्य कृते यद् उत्तरदायित्वम् अस्ति, तस्य प्रथमतः विचारः करणीयः, इति महती भावना तस्य हृदये अस्ति।

माशेलकरमहोदयेन भारतस्य पुरातनग्रन्थां पठित्वा, तत्र ये ये सिद्धान्ताः दत्ताः सन्ति, तेषां सर्वेषां 'पेटण्ट' इत्युक्ते स्वाम्यं तेन भारतस्य कृते प्राप्तम्। हल्दी तथा बासुमती तण्डुलस्य स्वाम्ये अमेरिका देशः प्राप्तुम् इच्छितवान्। परन्तु महा-प्रयासेन माशेलकरमहोदयेन ते स्वाम्ये भारतस्य कृते प्राप्ते। अहम् एकं साक्षात्कारम् अपश्यम्। तत्र साक्षात्कारकर्तारः वैज्ञानिकाय पृष्टवान्, यत् "वैज्ञानिकक्षेत्रे भारतस्य किं योगदानम् अस्ति?" सः वैज्ञानिकः अकथयत्, "विज्ञानक्षेत्रे भारतस्य योगदानं शून्यम् अस्ति।" यदि वयं एतस्य उत्तरस्य विषये चिन्तयामः, तर्हि एकः निष्कर्षः जातः, यत् "शून्यः" एषः सर्वेषां वैज्ञानिकसिद्धन्तानां मूलम् अस्ति। अतः सर्वसिद्धन्तानां मूलम् एव अस्माकं भारतदेशेन विज्ञानक्षेत्राय दत्तम् अस्ति। तस्मात्, अद्य ये ये देशाः अवकाशे उड्डयनं कुर्वन्ति, ते ते सर्वे भारतस्य आर्यभट्टः नाम वैज्ञानिकस्य ऋण्यः सन्ति। 

शून्येन विना काचिद् अपि सङ्ख्यायाः मूल्यं न वर्धते। तत् समानं, वैज्ञानिकैः विना वैज्ञानिकक्षेत्रस्य वर्धनम् अपि न भविष्यति, एतद् वयं सदैव संस्मराम इति अहं मन्ये।


- मुक्ताई देसाई

No comments:

Post a Comment

IAF: Just Two steps away from ‘World’s Best’ Title

  Founded on October 8, 1932, the Indian Air Force came into existence at Karachi’s Drigh Road, with just six RAF-trained officers, 19 air s...