Friday, February 14, 2025

स्नेहेन सर्वे वशाः।

मध्यायुगीनकाले मुघलः तथा हिन्दुराष्ट्राणाम्मध्ये  किञ्चिदपि स्नेहसम्बन्धाः नासन् । आक्रमणं युद्धं च एतासां सर्वासां परिस्थितौ  सामान्यजनानां जीवनम् अत्यधिकं कठिनं जातम्। कर्णावती सङ्ग्रामस्य मृत्योः पश्चात् राज्यपदे नियुक्ता। स्वराज्यं सङ्कटे दृष्ट्वा सहाय्यस्य अपेक्षया सा हुमायवे रक्षासूत्रं प्रेषितवती। अतः अन्ते रक्षासूत्रस्य कारणात् हुमायुः तस्यै सहाय्यं कृतवान्। द्वाभ्यां मुघलसम्राटाभ्यां सह युद्धं जातम्। तत्कारणात् हिन्दु -  मुघलसम्बन्धः दृढः जातः। अतः 'स्नेहेन सर्वे वशाः' एतदेव सत्यम्। ' स्नेह ' शब्दः नाम न केवलं प्रेम , आकर्षणम् अपि तु आत्मीयता, संवेदनशीलता तथा च बन्धुभावः। अग्रे ' सर्वे वशाः ' अत्र सूचितस्य सम्बन्धस्य अर्थः न केवलम् आकर्षणम् अपि तु उन्मुखता, वात्सल्यम्, आत्मीयतायाः सम्बन्धाः। सिन्धूताई- सपकाल-महोदया एव तस्य  समर्पकम् उदाहरणम् । रक्षणार्थं नैके बालकाः आक्रन्दन्ति, ते शिक्षणात् वञ्चिताः आसन्। एतेषां कृते सा मातृसमम् उत्तरदायित्वं निर्वहति। तान् आकाशे विहारार्थं प्रेरिता । तेषां बालकानां वशीकरणम् अपि सा स्नेहेन कृतवती। 

यस्याः कारणेन समाजस्य निम्नघटकाः आकाशे उड्डयनं कर्तुं शक्नुवन्ति तथा च साने गुरुजी नाम्ना ख्यातः महोदयः उक्तवान्,  स:एक एव सत्यधर्मः, विश्वाय स्नेहाभावः अर्पणीयः। तत्समानं व्यक्तिमत्वम् अस्ति आमटे - प्रकाशमहोदयस्य । समाजात् बहिष्कृतानाम् आदिवासिबान्धवानां कृते सः दीपस्तम्भः अभवत्। आदिवासिबान्धवानां कृते तस्य कार्यं अतुलनीयम्। तेषां कृते सः करनिर्मुक्तं शिक्षणम्, आरोग्यसुविधाः , व्यापारज्ञानम्, कृषिकार्यं, व्यवहारज्ञानं च स्नेहेन एव आरभत्। आदिवासी प्रभागतः आगता द्रौपदी मुर्मू यदा राष्ट्रपतिपदे नियुक्ता भवति, तदा आमटे -महोदयस्य कार्यपूर्तिः अभवत्, इति अहं मन्ये। तत् कारणात् भारतीयाः तथा आदिवासिबान्धवाः च वशाः।

यदा वयं ' सर्वे ' इति वदामः, तदा तस्य अर्थः मनुष्याः इति एव नास्ति, अपि तु पशवः, प्रकृतिः अपि अस्ति। एतान् सर्वान् अपि स्नेहेन वशीकर्तुं शक्यते। पशवः स्पन्दनं, स्पर्शं च अनुभवितुं समर्थाः। स्नेहपूर्णवर्तनस्य कारणात् ते अपि एकानिष्ठाः अभवन्। तेषां भूतदयां दर्शयित्वा ,  पालनपोषणेन आमटे महोदयः तान् आप्तान् कृतवान्। न केवलं आमटे महोदयः अपि तु महाडतः मेस्त्री  प्रेमसागर- महोदयः। तेषां गरुडसंवर्धनस्य कार्येण न केवलं गरुडान् अपि तु पयर्यावरणस्नेहिनः सः वशं कृतवान् ।

कम् अपि भारतीयं पश्यतु। सः ' वसुधैव कुटुम्बकम् ' इति धारणां मन्यते।  अतो भारतः रशियातः तैलं स्वीकरोति। चीनदेशः, यः रशियादेशस्य शत्रुपक्षः। तेन सह सामञ्जस्य विधेयकं करोति सःभारतः । रशिया - यूक्रेन युद्धे मध्यस्थः भवति। एतद् कारणात् भारतेन सम्पूर्णविश्वं वशीकृत्य सः शान्तिदूतस्य भूमिकां निर्वहति। अतः अहं मन्ये, स्नेहेन सर्वे वशाः। परन्तु  अहं विषयस्य द्वितीयं पक्षम् अपि वक्तुम् इच्छामि। यदि 'स्नेहेन सर्वे वशाः ' इति शक्यं तर्हि कुरुक्षेत्रे युद्धं न जातम् स्यात्। रावणवधस्य कर्तव्यम् एव पुरा न भूतं , कस्या अपि स्त्रीणां शोषणं न जातं स्यात्। न्यायालयं गत्वा  न्यायभिक्षायाः आवश्यकता न समुद्भूता। कौटिल्यः अपि उक्तवान् 'शत्रोः मित्रम्, शत्रुः एव ज्ञातव्यम्, तस्य नाशः करणीयः' । अतः एव अपि सत्यं स्नेहेन सर्वे वशाः?

          यथा संस्कृतसुभाषिते उक्तम् , 

बन्धनानि किल सन्ति बहूनि प्रेमरज्जुमयबन्धनमाहुः । दारुभेदनिपुणोऽपि षडङ्घ्रिः निष्क्रियो भवति पङ्कजकोशे ।।

एतस्य सुभाषितस्याधारेण चिन्त्यते, तर्हि  'स्नेहेन सर्वे वाशाः ' एतद् सत्यमेव।


-तन्वी चितळे

No comments:

Post a Comment

And Then There Was Her: The Queen of Crime

  Around a century and three decades ago, a little girl took up a voracious hobby of reading. Although her mother homeschooled her, the latt...